वांछित मन्त्र चुनें

यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् । अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥

अंग्रेज़ी लिप्यंतरण

yat tvā yāmi daddhi tan na indra bṛhantaṁ kṣayam asamaṁ janānām | abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

पद पाठ

यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् । अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥ १०.४७.८

ऋग्वेद » मण्डल:10» सूक्त:47» मन्त्र:8 | अष्टक:8» अध्याय:1» वर्ग:4» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वा) तुझे-तुझसे (यत्-यामि) जो माँगता हूँ या चाहता हूँ (तत्-नः-दद्धि) उसे हमारे लिए प्रदान कर (जनानाम्-असमं क्षयम्) उपासक जनों का अन्यों की अपेक्षा जो विशिष्ट अमरस्थान मोक्ष है, उसे दे (तत्-द्यावापृथिवी-अभि गृणीताम्) उसे माता-पितारूप स्त्री-पुरुष अध्यापिका-अध्यापक, उसका उपदेश करते हैं (अस्मभ्यम्…) पूर्ववत् ॥८॥
भावार्थभाषाः - उपासकों का अभीष्ट अमरधाम मोक्ष है। उसे प्राप्त करने के लिए परमात्मा से याचना करनी चाहिए। माता-पिता, अध्यापिका-अध्यापक, स्त्री-पुरुष, अपने पुत्रों और शिष्यों को उसकी प्राप्ति करने के यत्न का उपदेश दें ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वा) त्वाम् (यत्-यामि) यत् खलु याचामि याचेऽहम् “यामि याच्ञाकर्मा” [निघ० ३।१९] (तत्-नः-दद्धि) तदस्मभ्यं देहि “दद दाने” [भ्वादिः] ‘लोटि व्यत्ययेन परस्मैपदं बहुलं छन्दसि शपो लुक् च’, तत्किमित्युच्यते (जनानाम्-असमं क्षयम्) उपासकजनानामन्येभ्यो विशिष्टममरस्थानं मोक्षमित्यर्थः (तत्-द्यावापृथिवी-अभिगृणीताम्) तत् खलु मातापितरौ मातापितृभूतौ स्त्रीपुरुषौ, अध्यापिकाध्यापकौ “द्यौर्मे पिता………माता पृथिवी महीयम्” [ऋ० १।१६४।३३] अभ्युपदिशतः (अस्मभ्यम्…) पूर्ववत् ॥८॥